वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति
सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रसदः
आचार्याय प्रियं धनमाहृत्य प्रजतन्तुं मा व्यवच्छेत्सीः
सत्यान्न प्रमदितव्यम्, धर्मान्न प्रमदितव्यम्
कुशलान्न प्रमादितव्यम्, भूत्यै न प्रमादितव्यम्
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १ ॥
देवापितृकार्याभ्यां न प्रमदितव्यम्
मातृदेवो भव, पितृदेवो भव
आचार्यदेवो भव, अतिथिदेवो भव ॥ २ ॥
यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि
नो इतराणि, यान्यस्माकगं सुचरितानि
तानि त्वयोपास्यानि, नो इतराणि ॥ ३ ॥
ये के चास्मच्छ्रेयाणो ब्राह्मणाः
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् ॥ ४ ॥
श्रद्धया देयम्, अश्रद्धयादेयम्
श्रिया देयम्, ह्रिया देयम्
भिया देयम्, संविदा देयम् ॥ ५ ॥
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्
ये तत्र ब्राह्मणाः सम्मर्शिनः, युक्ताः आयुक्ताः
अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन्
तथा तत्र वर्तेथाः ॥ ६ ॥
अथाभ्याख्व्यातेषु, ये तत्र ब्रह्मणाः सम्मर्शिनः
युक्ताः आयुक्ताः, अलूक्षा धर्मकामाः स्युः
यथा ते तेषु वर्तेरन्, तथा तेषु वर्थेथाः ॥ ७ ॥
एष आदेशः, एष उपदेशः, एषा वेदोपनिषत्
एतदनुशासनम्, एवमुपासितव्यम्
एवसु चैतदुपास्यम् ॥ ८ ॥
....... ॐ .......
विविक्तदेशे च सुखासनस्थः
शुचिः समग्रीवशिरःशरीरः
अत्याश्रमस्थः सकलेन्द्रियाणि
निरूश्य भक्त्या स्वगुरुं प्रणम्य
हृत्पुण्दरीकं विरजं विशुद्धं
विचिन्त्य मध्ये विशदं विशोकम्
अचिन्त्यमव्यक्तमनन्तरूपं
शिवं प्रशान्तममृतं ब्रह्मयोहिम्
तथाऽऽदिमध्यान्तविहीनमेकं
विभुं चिदानन्दमरूपमद्भुतम् ॥ १ ॥
स ब्रह्मा स शिवः सोऽक्षरः परमः स्वराट्
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः
स एव सर्वं यद् भूतं यच्च भव्यं सनातनम्
ज्ञात्वा तं मृत्युमत्योति नान्यः पन्था विमुक्तये ॥ २ ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मानि
सम्पश्यन् ब्रह्मा परमं नान्येन हेतुना ॥ ३ ॥
....... ॐ .......
ॐ सर्वं ईशावास्यमिदङ् यत् किञ्च जगत्यां जगत्
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥
....... ॐ .......
कुर्वन्नेवेह कर्माणि जिजीविषेच्छत्ग्ण् समाः
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥
....... ॐ .......
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥
....... ॐ .......
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते
ततो भूय इव ते तमो य उ विद्यायाण् रताः ॥
....... ॐ .......
केनोषितं पतति प्रेषितं मनः केन प्राणः प्रथम प्रौति युक्तः
केनोषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥
न तत्र चक्षुर् गच्छति न वाग् गच्छति नो मनः
न विज्ञो न विजानीमो यथैतदनुशिष्यात्
अन्यदेव तद् विदितादथो अविदितादधि
इति शुश्रुम पूर्वेषां ये नस्तद् व्याचचक्षिरे ॥ ३ ॥
यद् वाचाऽनभ्युदितं येन वागभ्युद्यते
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ४ ॥
यन्मनसा न मनुते येनाऽऽहुर् मनो मतम्
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
यच्चक्षुषा न पश्यति येन चक्षूण्हि पश्यति
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्तुतम्
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥
....... ॐ .......
ॐ आत्मा वा इद्मेक एवाग्र आसीत्
नान्यत् किंचन मिषत् ॥ १ ॥
स ईक्षत लोकान्नु सृजा इति ॥ २ ॥
स इमांल्लोकानसृजत
अम्भो मरीचीर्मरमापोऽदोऽम्भः परेण दिवं
द्योः प्रतिष्ठान्तरिक्षं मरीचयः
पृथिवी मरो या अधस्तात्ता आपः ॥ ३ ॥
स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति
सोऽद्भय एव पुरुषं समुद्धृत्यामूर्चयत् ॥ ४ ॥
तमभ्यतपत्तस्याभितप्त मुखंनिरभिद्यत
यथाण्डं मुखाद् वाग् वाचोऽग्निः
नासिके निरभद्योतां नासिकाभ्यां प्राणः प्राणाद्वायुः
अक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः
कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशः
त्वण् निरभिद्यत त्वचो
लोमानि लोमभ्य ओषधिवनस्पतयो
हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमाः
नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः
शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ ५ ॥
....... ॐ .......