इहेमाविन्द्र सं नुद चक्रवाकेव दम्पती ।
प्रजयौनौ स्वस्तकौ विस्वमायुर्व्यऽशनुताम् ॥
....... ॐ .......
धर्मेच अर्थेच कामेच इमां नातिचरामि ।
धर्मेच अर्थेच कामेच इमं नातिचरामि ॥
....... ॐ .......
गृभ्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
भगो अर्यमा सविता पुरन्धिर्मह्यांत्वादुःगार्हपत्याय देवाः ॥
....... ॐ .......
सखा सप्तपदा भव ।
सखायौ सप्तपदा बभूव ।
सख्यं ते गमेयम् ।
सख्यात् ते मायोषम् ।
सख्यान्मे मयोष्ठाः ।
....... ॐ .......
धैरहं पृथिवीत्वम् ।
रेतोऽहं रेतोभृत्त्वम् ।
मनोऽहमस्मि वाक्त्वम् ।
सामाहमस्मि ऋकृत्वम् ।
सा मां अनुव्रता भव ।
....... ॐ .......
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
ध्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥
....... ॐ .......
गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्थासः ।
भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥
....... ॐ .......
काश्यपः - ययोतेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥
....... ॐ .......
काश्यपः - अभी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्राप्तसंस्तीणदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धौवैर्तानास्त्वां वह्नयः पावयन्तु ॥
....... ॐ .......
काश्यपः - शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याध्यः ॥
....... ॐ .......
काश्यपः - अर्थो हि कन्या परकीय एव तामध्य संप्रेष्य परिग्रहीतुः ।
जाते मामायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥
....... ॐ .......
प्रयुक्तपाणिग्रहणं यदब्यद् वधूवरं पुष्यति कान्तिमग्रयाम् ।
सांइध्ययोगाद्नयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥
....... ॐ .......
प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस्तन् मिथुनं चकाशे ।
मेरोरुपान्तेष्विव वर्तमानम् अन्योन्यसंसक्तमहस्त्रियामम् ॥
....... ॐ .......